Vedic Library
Chapter 10

The Opulence of the Absolute

All wondrous phenomena showing power, beauty, grandeur, or sublimity, either in the material world or in the spiritual, are but partial manifestations of Krishna's divine energies and opulence. As the supreme cause of all causes and the support and essence of everything, Krishna is the supreme object of worship for all beings.
Verse 1
श्रीभगवानुवाच भूय एव महाबाहो श‍ृणु मे परमं वच: । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
Verse 2
न मे विदु: सुरगणा: प्रभवं न महर्षय: । अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
Verse 3
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
Verse 4
बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥
Verse 5
अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
Verse 6
महर्षय: सप्‍त पूर्वे चत्वारो मनवस्तथा । मद्भ‍ावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥
Verse 7
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥
Verse 8
अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥
Verse 9
मच्च‍ित्ता मद्ग‍तप्राणा बोधयन्त: परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
Verse 10
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
Verse 11
तेषामेवानुकम्पार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
Verse 12
अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
Verse 13
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥
Verse 14
सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: ॥ १४ ॥
Verse 15
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
Verse 16
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
Verse 17
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
Verse 18
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूय: कथय तृप्‍तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
Verse 19
श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: । प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
Verse 20
अहमात्मा गुडाकेश सर्वभूताशयस्थित: । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥
Verse 21
आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
Verse 22
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
Verse 23
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥
Verse 24
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्द: सरसामस्मि सागर: ॥ २४ ॥
Verse 25
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥
Verse 26
अश्वत्थ: सर्ववृक्षाणां देवर्षीणां च नारद: । गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: ॥ २६ ॥
Verse 27
उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
Verse 28
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥
Verse 29
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यम: संयमतामहम् ॥ २९ ॥
Verse 30
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
Verse 31
पवन: पवतामस्मि राम: शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
Verse 32
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥
Verse 33
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च । अहमेवाक्षय: कालो धाताहं विश्वतोमुख: ॥ ३३ ॥
Verse 34
मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् । कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥
Verse 35
बृहत्साम तथा साम्न‍ां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: ॥ ३५ ॥
Verse 36
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
Verse 37
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: । मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥
Verse 38
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
Verse 39
यच्च‍ापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
Verse 40
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
Verse 41
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसम्भवम् ॥ ४१ ॥
Verse 42
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥