Vedic Library
Chapter 14

The Three Modes of Material Nature

All embodied souls are under the control of the three modes, or qualities, of material nature: goodness, passion, and ignorance. Lord Krishna explains what these modes are, how they act upon us, how one transcends them, and the symptoms of one who has attained the transcendental state.
Verse 1
श्रीभगवानुवाच परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ‍‍ ॥ यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥
Verse 2
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
Verse 3
मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥
Verse 4
सर्वयोनिषु कौन्तेय मूर्तय: सम्भवन्ति या: । तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता ॥ ४ ॥
Verse 5
सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: । निबध्‍नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
Verse 6
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्‍नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
Verse 7
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भ‍वम् । तन्निबध्‍नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
Verse 8
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्‍नाति भारत ॥ ८ ॥
Verse 9
सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत । ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत ॥ ९ ॥
Verse 10
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा ॥ १० ॥
Verse 11
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
Verse 12
लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
Verse 13
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
Verse 14
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
Verse 15
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
Verse 16
कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥
Verse 17
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥
Verse 18
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: ॥ १८ ॥
Verse 19
नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भ‍ावं सोऽधिगच्छति ॥ १९ ॥
Verse 20
गुणानेतानतीत्य त्रीन्देही देहसमुद्भ‍वान् । जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्न‍ुते ॥ २० ॥
Verse 21
अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥
Verse 22
श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥
Verse 23
उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥
Verse 24
समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥ २४ ॥
Verse 25
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो: । सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥
Verse 26
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
Verse 27
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥