Vedic Library
Chapter 5

Karma-yoga—Action in Krishna Consciousness

Outwardly performing all actions but inwardly renouncing their fruits, the wise man, purified by the fire of transcendental knowledge, attains peace, detachment, forbearance, spiritual vision, and bliss.
Verse 1
अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
Verse 2
श्रीभगवानुवाच सन्न्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
Verse 3
ज्ञेय: स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
Verse 4
सां‍ख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: । एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
Verse 5
यत्सां‍ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सां‍ख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥
Verse 6
सन्न्यासस्तु महाबाहो दु:खमाप्‍तुमयोगत: । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥
Verse 7
योगयुक्तो विश‍ुद्धात्मा विजितात्मा जितेन्द्रिय: । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
Verse 8
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्न‍न्गच्छन्स्वपन्श्वसन् ॥ ८ ॥
Verse 9
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
Verse 10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
Verse 11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म‍श‍ुद्धये ॥ ११ ॥
Verse 12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्‍नोति नैष्ठिकीम् । अयुक्त: कामकारेण फले सक्तो निबध्यते ॥ १२ ॥
Verse 13
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
Verse 14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
Verse 15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: ॥ १५ ॥
Verse 16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
Verse 17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: ॥ १७ ॥
Verse 18
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । श‍ुनि चैव श्वपाके च पण्डिता: समदर्शिन: ॥ १८ ॥
Verse 19
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म तस्माद्‍ब्रह्मणि ते स्थिता: ॥ १९ ॥
Verse 20
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद्‍ब्रह्मणि स्थित: ॥ २० ॥
Verse 21
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्न‍ुते ॥ २१ ॥
Verse 22
ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥
Verse 23
शक्न‍ोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भ‍वं वेगं स युक्त: स सुखी नर: ॥ २३ ॥
Verse 24
योऽन्त:सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव य: । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
Verse 25
लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥
Verse 26
कामक्रोधविमुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
Verse 27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
Verse 28
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: । विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥
Verse 29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥